|| श्री गणेश कवचम् ||
|| गौर्युवाच ||
एषोति चपलो दैत्यान्बाल्येऽपि नाशयत्यहो |
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम || १ ||
दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः |
अतोऽस्य कण्ठे किंचित्त्वं रक्षार्थं बद्धुमर्हसि || २ ||
|| मुनिरुवाच ||
ध्यायेत्सिंहहतं विनायकममुं दिग्बाहुमाद्ये युगे
त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् |
द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम्
तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा || ३ ||
विनायकः शिखां पातु परमात्मा परात्परः |
अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः || ४ ||
ललाटं कश्यपः पातु भृयुगं तु महोदरः |
नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ || ५ ||
जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः |
वाचं विनायकः पातु दन्तान् रक्षतु विघ्नहा || ६ ||
श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः |
गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः || ७ ||
स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः |
हृदयं गणनाथस्तु हेरंबो जठरं महान् || ८ ||
धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः |
लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः || ९ ||
गणक्रीडो जानुसङ्घे ऊरु मङ्गलमूर्तिमान् |
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु || १० ||
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः |
अङ्गुलीश्च नखान्पातु पद्महस्तोऽरिनाशनः || ११ ||
सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु |
अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु || १२ ||
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु |
प्राच्यां रक्षतु बुद्धीश आग्नेयां सिद्धिदायकः || १३ ||
दक्षिणास्यामुमापुत्रो नैरृत्यां तु गणेश्वरः |
प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः || १४ ||
कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः |
दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् || १५ ||
राक्षसासुरवेतालग्रहभूतपिशाचतः |
पाशाङ्कुशधरः पातु रजःसत्त्वतमः स्मृतिः || १६ ||
ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्ति तथा कुलम् |
वपुर्धनं च धान्यं च गृहान्दारान्सुतान्सखीन् || १७ ||
सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा |
कपिलोऽजादिकं पातु गजाश्वान्विकटोऽवतु || १८ ||
भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः |
न भयं जायते तस्य यक्षरक्षःपिशाचतः || १८ ||
त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् |
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् || २० ||
युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्द्रुतम् |
मारणोच्चाटकाकर्षस्तम्भमोहनकर्मणि || २१ ||
सप्तवारं जपेदेतद्दिनानामेकविंशतिम् |
तत्तत्फलवाप्नोति साधको नात्रसंशयः || २२ ||
एकविंशतिवारं च पठेत्तावद्दिनानि यः |
कारागृहगतं सद्योराज्ञा वध्यं च मोचयेत् || २३ ||
राजदर्शनवेलायां पठेदेतत्त्रिवारतः |
स राजसं वशं नीत्वा प्रकृतीश्च सभां जयेत् || २४ ||
इदं गणेशकवचं कश्यपेन समीरितम् |
मुद्गलाय च ते नाथ माण्डव्याय महर्षये || २५ ||
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् |
न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् || २६ ||
यस्यानेन कृता रक्षा न बाधास्य भवेत्क्वचित् |
राक्षसासुरवेतालदैत्यदानवसम्भवा || २७ ||
इति श्रीगणेशपुराणे उत्तरखण्डे बालक्रीडायां
षडशीतितमेऽध्याये गणेशकवचं सम्पूर्णम् ||